जलोदं सागरं शीघ्रं सर्वभूतभयावहम्। तत्र तत्कोपजं तेजः कृतं हयमुखं महत्
अस्याहुस्तन्महावेगमोदनं सचराचरम्। तत्र विक्रोशतां नादो भूतानां सागरौकसाम्। श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम्
स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश। जातरूपशिलो नाम सुमहान् कनकप्रभः
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्। पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः
आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम्। सहस्रशिरसं देवमनन्तं नीलवाससम्
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः। स्थापितः पर्वतस्याग्रे विराजति सवेदिकः
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः। ततः परं हेममयः श्रीमानुदयपर्वतः
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता। जातरूपमयी दिव्या विराजति सवेदिका
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः। जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्। शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे। द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः। दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्
तत्र वैखानसा नाम वालखिल्या महर्षयः। प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते। तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः। आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते
पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च। सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता। रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च। ये च नोक्ता मयोद्देशा विचेया तेषु जानकी
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम्
अभिगम्य तु वैदेहीं निलयं रावणस्य च। मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्। दक्षिणां प्रेषयामास वानरानभिलक्षितान्
नीलमग्निसुतं चैव हनूमन्तं च वानरम्। पितामहसुतं चैव जाम्बवन्तं महौजसम्
सुहोत्रं च शरारिं च शरगुल्मं तथैव च। गजं गवाक्षं गवयं सुषेणं वृषभं तथा
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम्। उल्कामुखमनङ्गं च हुताशनसुतावुभौ
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः। वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्