शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्। सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम
देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये। वृतः शतसहस्रेण वानराणां तरस्विनाम्
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्। तत्र सीतां च वैदेहीं निलयं रावणस्य च
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च। नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्। सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्
महीं कालमहीं चापि शैलकाननशोभिताम्। ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्
मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च। भूमिं च कोशकाराणां भूमिं च रजताकराम्
सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः। रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च। मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः
अक्षया बलवन्तश्च तथैव पुरुषादकाः। किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः
आममीनाशनाश्चापि किराता द्वीपवासिनः। अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः
एतेषामाश्रयाः सर्वे विचेयाः काननौकसः। गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च
यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम्। सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम्
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः। दिवं स्पृशति शृङ्गेण देवदानवसेवितः
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्
ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम्। गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च। रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः। मार्गितव्या दरीमन्तः पर्वताश्च वनानि च
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ। ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम्
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः। ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः
तं कालमेघप्रतिमं महोरगनिषेवितम्। अभिगम्य महानादं तीर्थेनैव महोदधिम्
ततो रक्तजलं भीमं लोहितं नाम सागरम्। गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति। अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः। ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः। तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः
दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः। सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्। विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः
हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः। क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः