अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्। सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्। निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः। निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परबलार्दनम्
आगता विनिविष्टाश्च बलिनः कामरूपिणः। वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः
त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः
पृथिव्यम्बुचरा राम नानानगनिवासिनः। कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः
निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः। अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि
काममेषामिदं कार्यं विदितं मम तत्त्वतः। तथापि तु यथायुक्तमाज्ञापयितुमर्हसि
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः। बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा। स च देशो महाप्राज्ञ यस्मिन् वसति रावणः
अधिगम्य तु वैदेहीं निलयं रावणस्य च। प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया
नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः। त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्। त्वं हि जानासि मे कार्यं मम वीर न संशयः
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्। भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्। अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्। सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम
देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये। वृतः शतसहस्रेण वानराणां तरस्विनाम्
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्। तत्र सीतां च वैदेहीं निलयं रावणस्य च
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च। नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्। सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्
महीं कालमहीं चापि शैलकाननशोभिताम्। ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्
मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च। भूमिं च कोशकाराणां भूमिं च रजताकराम्
सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः। रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च। मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः