ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा। वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ। कोटिकोटिसहस्रेण वानराणामदृश्यताम्
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः। आजगाम महातेजाः सुग्रीवस्य समीपतः
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः। कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः। आगतो बलवांस्तूर्णं कोटीशतसमावृतः
ततः कोटिसहस्राणां सहस्रेण शतेन च। पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च। युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः। पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत। एकादशानां कोटीनामीश्वरस्तैश्च संवृतः
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः। अयुतेन वृतश्चैव सहस्रेण शतेन च
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः। प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः। वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः। कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः। सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः
शरभः कुमुदो वह्निर्वानरो रंह एव च। एते चान्ये च बहवो वानराः कामरूपिणः
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः। आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव
कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः। शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्। सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्। निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः। निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परबलार्दनम्
आगता विनिविष्टाश्च बलिनः कामरूपिणः। वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः
त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः
पृथिव्यम्बुचरा राम नानानगनिवासिनः। कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः
निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः। अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः। आगता वानरा घोरा दैत्यदानवसंनिभाः
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि