त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्। त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि
जहारात्मविनाशाय मैथिलीं राक्षसाधमः। वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः। पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा
एतस्मिन्नन्तरे चैव रजः समभिवर्तत। उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः। कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः। कोटीशतपरीवारैर्वानरैर्हरियूथपैः
नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः। हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः। पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा। वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता। अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत
तथापरेण कोटीनां सहस्रेण समन्वितः। पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः
पद्मकेसरसंकाशस्तरुणार्कनिभाननः। बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः
अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः। पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः। वृतः कोटिसहस्रेण वानराणामदृश्यत
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः। वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत
महाचलनिभैर्घोरैः पनसो नाम यूथपः। आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः
नीलाञ्जनचयाकारो नीलो नामैष यूथपः। अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः
ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा। वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ। कोटिकोटिसहस्रेण वानराणामदृश्यताम्
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः। आजगाम महातेजाः सुग्रीवस्य समीपतः
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः। कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः। आगतो बलवांस्तूर्णं कोटीशतसमावृतः
ततः कोटिसहस्राणां सहस्रेण शतेन च। पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च। युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः। पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत। एकादशानां कोटीनामीश्वरस्तैश्च संवृतः
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः। अयुतेन वृतश्चैव सहस्रेण शतेन च
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः। प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः। वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत