परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः। स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः। आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा। तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत्। पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे। परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः। धर्ममर्थं च कामं च काले यस्तु निषेवते
विभज्य सततं वीर स राजा हरिसत्तम। हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते। अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते। उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः। एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया
तव देव प्रसादाच्च भ्रातुश्च जयतां वर। कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषकः
एते वानरमुख्याश्च शतशः शत्रुसूदन। प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्
ऋक्षाश्च वानराः शूरा गोलाङ्गूलाश्च राघव। कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः। स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव
शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा। अयुतैश्चावृता वीर शङ्कुभिश्च परंतप
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः। समुद्राश्च परार्धाश्च हरयो हरियूथपाः
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः। मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः
ते त्वामभिगमिष्यन्ति राक्षसं योद्धुमाहवे। निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम्
ततः समुद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः। बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः। बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति। आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः
चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम्। त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप
एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम्। जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्। त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि
जहारात्मविनाशाय मैथिलीं राक्षसाधमः। वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः। पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा
एतस्मिन्नन्तरे चैव रजः समभिवर्तत। उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः। कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः