तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः। किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्
सर्वे परिसृताः शैलाः सरितश्च वनानि च। पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम्। वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत्
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम्
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्। अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते। तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह। एवं भवतु गच्छाम स्थेयं त्वच्छासने मया
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्। विसर्जयामास तदा ताराद्याश्चैव योषितः
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्। तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः। तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः
उपस्थापयत क्षिप्रं शिबिकां मम वानराः। श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्। तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्। इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः। शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्। स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः। स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः। आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा। तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत्। पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे। परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः। धर्ममर्थं च कामं च काले यस्तु निषेवते
विभज्य सततं वीर स राजा हरिसत्तम। हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते। अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते। उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः। एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्