कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्। ततः कोटिसहस्राणि वानराणां समागमन्
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत
अङ्गारकसमानानां भीमानां भीमकर्मणाम्। विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्
क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां संख्या न विद्यते
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः। आगच्छद् वानरी सेना पिबन्तीव दिवाकरम्
ये तु त्वरयितुं याता वानराः सर्ववानरान्। ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम्
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा। सर्वदेवमनस्तोषो बभूव सुमनोरमः
अन्ननिस्यन्दजातानि मूलानि च फलानि च। अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम्। यः कश्चित् सकृदश्नाति मासं भवति तर्पितः
तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्। संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः। किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः। तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्
सर्वे परिसृताः शैलाः सरितश्च वनानि च। पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम्। वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत्
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम्
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्। अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते। तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह। एवं भवतु गच्छाम स्थेयं त्वच्छासने मया
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्। विसर्जयामास तदा ताराद्याश्चैव योषितः
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्। तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः। तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः
उपस्थापयत क्षिप्रं शिबिकां मम वानराः। श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्। तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्। इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः। पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः। शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्। स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः