सर्वथा हि मम भ्राता सनाथो वानरेश्वर। त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः
यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम्। अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्
सहायेन च सुग्रीव त्वया रामः प्रतापवान्। वधिष्यति रणे शत्रूनचरान्नात्र संशयः
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः। उपपन्नं च युक्तं च सुग्रीव तव भाषितम्
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति। वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम
सदृशश्चासि रामेण विक्रमेण बलेन च। सहायो दैवतैर्दत्तश्चिराय हरिपुंगव
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च। मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः
तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः। पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि
आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे। पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः
अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः। अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः
महाशैलगुहावासा वानराः कनकप्रभाः। मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः
तरुणादित्यवर्णाश्च पर्वते ये महारुणे। पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च। तापसाश्रमरम्येषु वनान्तेषु समन्ततः
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्। सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः। त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान्
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः। इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान्
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया। हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः
शतान्यथ सहस्राणि कोट्यश्च मम शासनात्। प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्। घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः। दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च। वानरा वानरान् सर्वान् रामहेतोरचोदयन्
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः। सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः
ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः। तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः। संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः