ते न शक्या रणे हन्तुमसहायेन लक्ष्मण। रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्
त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः। आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्। राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः
कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा। अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च। अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम। कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः। हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः
thumb|षट्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्। मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः। लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत्
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्। चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः। अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा। तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्। सहायमात्रेण मया राघवः स्वेन तेजसा
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः। गिरिश्च वसुधा चैव बाणेनैकेन दारिताः
धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण। सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ। गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्
यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा। प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह
सर्वथा हि मम भ्राता सनाथो वानरेश्वर। त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः
यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम्। अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्
सहायेन च सुग्रीव त्वया रामः प्रतापवान्। वधिष्यति रणे शत्रूनचरान्नात्र संशयः
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः। उपपन्नं च युक्तं च सुग्रीव तव भाषितम्
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति। वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम
सदृशश्चासि रामेण विक्रमेण बलेन च। सहायो दैवतैर्दत्तश्चिराय हरिपुंगव
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना। हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्