सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः। कृतज्ञः सत्यवादी च राजा लोके महीयते
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्। मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः
शतमश्वानृते हन्ति सहस्रं तु गवानृते। आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः। कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः। दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर। पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्
ननु नाम कृतार्थेन त्वया रामस्य वानर। सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः। न त्वां रामो विजानीते सर्पं मण्डूकराविणम्
महाभागेन रामेण पापः करुणवेदिना। हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना
कृतं चेन्नातिजानीषे राघवस्य महात्मनः। सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्
न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः
न नूनमिक्ष्वाकुवरस्य कार्मुका- च्छरांश्च तान् पश्यसि वज्रसंनिभान्। ततः सुखं नाम विषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-
तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा। अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति। हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः। रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे
रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्। प्राप्तवानिह सुग्रीवो रुमां मां च परंतप
सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्। प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण। अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः
स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः
देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण। अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण। निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ। अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता। महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्
रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च। रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम
समानेष्यति सुग्रीवः सीतया सह राघवम्। शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्। अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः। न शक्यो रावणो हन्तुं येन सा मैथिली हृता