न चिन्तयति राज्यार्थं सोऽस्मान् शोकपरायणान्। सामात्यपरिषत् तारे काममेवोपसेवते
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः। व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते। पानादर्थश्च कामश्च धर्मश्च परिहीयते
धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः। अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्। तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्। तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम्। तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः
न कोपकालः क्षितिपालपुत्र न चापि कोपः स्वजने विधेयः। त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे। कस्त्वद्विधः कोपवशं हि गच्छेत् सत्त्वावरुद्धस्तपसः प्रसूतिः
जानामि कोपं हरिवीरबन्धो- र्जानामि कार्यस्य च कालसङ्गम्। जानामि कार्यं त्वयि यत्कृतं न- स्तच्चापि जानामि यदत्र कार्यम्
तच्चापि जानामि तथाविषह्यं बलं नरश्रेष्ठ शरीरजस्य। जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः। न देशकालौ हि यथार्थधर्मा- ववेक्षते कामरतिर्मनुष्यः
तं कामवृत्तं मम संनिकृष्टं कामाभियोगाच्च विमुक्तलज्जम्। क्षमस्व तावत् परवीरहन्त- स्त्वद्भ्रातरं वानरवंशनाथम्
महर्षयो धर्मतपोऽभिरामाः कामानुकामाः प्रतिबद्धमोहाः। अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम्। पुनः सखेदं मदविह्वलाक्षी भर्तुर्हितं वाक्यमिदं बभाषे
उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम। कामस्यापि विधेयेन तवार्थप्रतिसाधने
आगता हि महावीर्या हरयः कामरूपिणः। कोटीः शतसहस्राणि नानानगनिवासिनः
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया। अच्छलं मित्रभावेन सतां दारावलोकनम्
तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः। प्रविवेश महाबाहुरभ्यन्तरमरिंदमः
ततः सुग्रीवमासीनं काञ्चने परमासने। महार्हास्तरणोपेते ददर्शादित्यसंनिभम्
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्। दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्। संरब्धतररक्ताक्षो बभूवान्तकसंनिभः
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः। ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः स विशालनेत्रम्
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्। सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्। महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः। सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव
संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः। बभूवावस्थितस्तत्र कल्पवृक्षो महानिव
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्। अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा