पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च। प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च
पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्। वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः। सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः। दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः। दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः। अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः
स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः। ददर्श सुमहद्गुप्तं ददर्शान्तःपुरं महत्
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः। महार्हास्तरणोपेतैस्तत्र तत्र समावृतम्
प्रविशन्नेव सततं शुश्राव मधुरस्वनम्। तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्
बह्वीश्च विविधाकारा रूपयौवनगर्विताः। स्त्रियः सुग्रीवभवने ददर्श स महाबलः
दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः। वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः
नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान्। सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः
कूजितं नूपुराणां च काञ्चीनां निःस्वनं तथा। स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत्
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्। चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन्
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः। तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः। विज्ञायागमनं त्रस्तः स चचाल वरासनात्
अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम्। सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः
अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः। बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्। उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः
किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः। सरोष इव सम्प्राप्तो येनायं राघवानुजः
यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम्। तद्बुद्ध्या सम्प्रधार्याशु क्षिप्रमेवाभिधीयताम्
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि। वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि
त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति। नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम्
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्। ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम्
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा। सलक्षणा लक्ष्मणसंनिधानं जगाम तारा नमिताङ्गयष्टिः
स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा। अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसंनिकर्षाद् विनिवृत्तकोपः
सा पानयोगाच्च निवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः। उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वरूपम्
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे। कः शुष्कवृक्षं वनमापतन्तं दावाग्निमासीदति निर्विशङ्कः
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः। भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्
किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः। भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे