न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्। मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम्
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम्। अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते
अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना। यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया
सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः। उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्
सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर। न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम्
राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः। भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्
त्वं प्रमत्तो न जानीषे कालं कालविदां वर। फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा
निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका। प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च
प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव। त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्। वचनं मर्षणीयं ते राघवस्य महात्मनः
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्। अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्। इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः। सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्। पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः। राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम्। मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा। प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात्
द्वारस्था हरयस्तत्र महाकाया महाबलाः। बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्। बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्
स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम्। रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्
हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम्। सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः। दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः
चन्दनागुरुपद्मानां गन्धैः सुरभिगन्धिताम्। मैरेयाणां मधूनां च सम्मोदितमहापथाम्
विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः। ददर्श गिरिनद्यश्च विमलास्तत्र राघवः
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च। गवयस्य गवाक्षस्य गजस्य शरभस्य च
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः। वीरबाहोः सुबाहोश्च नलस्य च महात्मनः
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्। ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः