ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्। निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान्। दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः। बभूव नरशार्दूलः सधूम इव पावकः
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्। स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः। सुग्रीवः कथ्यतां वत्स ममागमनमित्युत
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम। भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर। इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्। पितुः समीपमागम्य सौमित्रिरयमागतः
अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः। निर्गत्य पूर्वं नृपतेस्तरस्वी ततो रुमायाश्चरणौ ववन्दे
संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ। पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्
स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान्। बभूव मदमत्तश्च मदनेन च मोहितः
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः। प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्। सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः
तेन शब्देन महता प्रत्यबुध्यत वानरः। मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः। वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः
प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः। आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ। मनुष्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः। यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः। व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात्
अयं च तनयो राजंस्ताराया दयितोऽङ्गदः। लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्। वानरान् वानरपते चक्षुषा निर्दहन्निव
तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः सहबान्धवः। गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम्
यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः। राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह। लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्
स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम्। मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः
न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम्। लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः। मम दोषानसम्भूतान् श्रावितो राघवानुजः
अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि। भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः