नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण। तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्
सामोपहितया वाचा रूक्षाणि परिवर्जयन्। वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये
सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः। प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम्। प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्। बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा
कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः
सालतालाश्वकर्णांश्च तरसा पातयन् बलात्। पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः
शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः। दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम्
तामपश्यद् बलाकीर्णां हरिराजमहापुरीम्। दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः। ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान्
तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम्। शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे
तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः। बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः
तं ते भयपरीताङ्गा क्षुब्धं दृष्ट्वा प्लवंगमाः। कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः। क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्
तारया सहितः कामी सक्तः कपिवृषस्तदा। न तेषां कपिसिंहानां शुश्राव वचनं तदा
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः। गिरिकुञ्जरमेघाभा नगरान्निर्ययुस्तदा
नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः। सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः
दशनागबलाः केचित् केचिद् दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यवर्चसः
ततस्तैः कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः। अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम्
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्। निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान्। दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः। बभूव नरशार्दूलः सधूम इव पावकः
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्। स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः। सुग्रीवः कथ्यतां वत्स ममागमनमित्युत
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम। भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर। इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्। पितुः समीपमागम्य सौमित्रिरयमागतः
अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः। निर्गत्य पूर्वं नृपतेस्तरस्वी ततो रुमायाश्चरणौ ववन्दे
संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ। पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम्