हंससारसचक्राह्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण
चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभितप्तस्य तथा सीतामपश्यतः
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्। विषमं दण्डकारण्यमुद्यानमिव चाङ्गना
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते। कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण
अनाथो हृतराज्योऽहं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परंतपः
स कालं परिसंख्याय सीतायाः परिमार्गणे। कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम्। मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्। आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्। सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये। तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे। द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम्
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे। निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे। त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज
यदर्थमयमारम्भः कृतः परपुरंजय। समयं नाभिजानाति कृतार्थः प्लवगेश्वरः
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः। व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते
सामात्यपरिषत्क्रीडन् पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्
उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल। मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः
न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः
एक एव रणे वाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्
यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ। तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः
कुरुष्व सत्यं मम वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्। मा वालिनं प्रेतगतो यमक्षये त्वमद्य पश्येर्मम चोदितः शरैः
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम्। चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशवर्धनः
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥४-
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम्। नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच
न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान्। न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नातिक्रमतेऽस्य बुद्धिः
मतिक्षयाद् ग्राम्यसुखेषु सक्त- स्तव प्रसादात् प्रतिकारबुद्धिः। हतोऽग्रजं पश्यतु वीरवालिनं न राज्यमेवं विगुणस्य देयम्
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य। हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम्
नहि वै त्वद्विधो लोके पापमेवं समाचरेत्। कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः