नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु। प्रियास्वरक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः। सुवर्णगौरैर्नयनाभिरामै- रुद्योतितानीव वनान्तराणि
प्रियान्वितानां नलिनीप्रियाणां वने प्रियाणां कुसुमोद्गतानाम्। मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः
व्यक्तं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि। कह्लारशीताः पवनाः प्रवान्ति तमो विमुक्ताश्च दिशः प्रकाशाः
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः। अन्योन्यवैरेण समायुताना- मुद्योगकालोऽद्य नराधिपानाम्
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः। मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति
समन्मथा तीव्रतरानुरागा कुलान्विता मन्दगतिः करेणुः। मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयाति
त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम्। निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमना मयूराः
वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः। सरस्सुबद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु। ससारसारावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः
नदीघनप्रस्रवणोदकाना- मतिप्रवृद्धानिलबर्हिणानाम्। प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः
अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः। क्षुधार्दिता घोरविषा बिलेभ्य- श्चिरोषिता विप्रसरन्ति सर्पाः
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका। अहो रागवती संध्या जहाति स्वयमम्बरम्
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा। ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला
सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति। घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम्। वाप्युत्तमानामधिकाद्य लक्ष्मी- र्वराङ्गनानामिव भूषितानाम्
वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसम्प्रवृत्तः। सम्मूर्छितो गर्गरगोवृषाणा- मन्योन्यमापूरयतीव शब्दः
नवैर्नदीनां कुसुमप्रहासै- र्व्याधूयमानैर्मृदुमारुतेन। धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः। वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः
जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम्। मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्
मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः। कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि। सपत्ररेखाणि सरोचनानि वधूमुखानीव नदीमुखानि
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु। गृहीतचापोद्यतदण्डचण्डः प्रचण्डचापोऽद्य वनेषु कामः
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा। निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः। नवसंगमसव्रीडा जघनानीव योषितः
प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज। उद्योगसमयः सौम्य पार्थिवानामुपस्थितः
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज। न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु