पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। दृष्ट्वा कालमतीतं च मुमोह परमातुरः
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः। मनःस्थामपि वैदेहीं चिन्तयामास राघवः
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्। सारसारावसंघुष्टं विललापार्तया गिरा
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते। शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्
सारसारावसंनादैः सारसारावनादिनी। याऽऽश्रमे रमते बाला साद्य मे रमते कथम्
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्। कथं सा रमते बाला पश्यन्ती मामपश्यती
या पुरा कलहंसानां कलेन कलभाषिणी। बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्। पुण्डरीकविशालाक्षी कथमेषा भविष्यति
सरांसि सरितो वापीः काननानि वनानि च। तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्। सुदूरं पीडयेत् कामः शरद्गुणनिरन्तरः
एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु। ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्
स चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी। भ्रातुर्विषादात् त्वरितोऽतिदीनः समीक्ष्य सौमित्रिरुवाच दीनम्
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन । अयं ह्रिया संह्रियते समाधिः किमत्र योगेन निवर्तते न
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम्। सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व तात
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण। न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कश्चित्
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः। हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च
निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽप्यनुवर्तितव्यः। न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलं च चिन्त्यम्
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्। उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्। निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः
दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः। विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश। विमदा इव मातङ्गाः शान्तवेगाः पयोधराः
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः। चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः
घनानां वारणानां च मयूराणां च लक्ष्मण। नादः प्रस्रवणानां च प्रशान्तः सहसानघ
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः। अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम्। लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता
सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना। सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति
अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोऽवकीर्णैः। महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु। प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता