तदिदं मित्रकार्यं नः कालातीतमरिंदम। क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम्
न च कालमतीतं ते निवेदयति कालवित्। त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः। अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव। हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि
नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते। चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर। किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च
शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर। कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे
कामं खलु शरैः शक्तः सुरासुरमहोरगान्। वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते
प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम्। तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे
देवदानवगन्धर्वा असुराः समरुद्गणाः। न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः
तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा। रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे। कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु। हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ
तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम्। सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्
यथा सेना समग्रा मे यूथपालाश्च सर्वशः। समागच्छन्त्यसङ्गेन सेनाग्र्ये ण तथा कुरु
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः। समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम। स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः। तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा
हरींश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम्। इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्
thumb|त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-
गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः। वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्। शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्। दृष्ट्वा कालमतीतं च मुमोह परमातुरः
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः। मनःस्थामपि वैदेहीं चिन्तयामास राघवः
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्। सारसारावसंघुष्टं विललापार्तया गिरा
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते। शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्
सारसारावसंनादैः सारसारावनादिनी। याऽऽश्रमे रमते बाला साद्य मे रमते कथम्
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्। कथं सा रमते बाला पश्यन्ती मामपश्यती
या पुरा कलहंसानां कलेन कलभाषिणी। बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्। पुण्डरीकविशालाक्षी कथमेषा भविष्यति
सरांसि सरितो वापीः काननानि वनानि च। तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे