स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्। उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः
तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण। सुग्रीवस्य नदीनां च प्रसादमभिकांक्षयन्
उपकारेण वीरो हि प्रतीकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः
अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्
यदुक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्। सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम्
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्। अत्यर्थं चासतां मार्गमेकान्तगतमानसम्
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा। प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्। विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्
क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः। मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्
उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम्। निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्
प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः। वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत्। प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्
हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत्। राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता
मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति। यो हि मित्रेषु कालज्ञः सततं साधु वर्तते
तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते। यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समान्येतानि सर्वाणि स राज्यं महदश्नुते
तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये। मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति
संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते। सम्भ्रमाद् विकृतोत्साहः सोऽनर्थैर्नावरुध्यते
यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते। स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते
तदिदं मित्रकार्यं नः कालातीतमरिंदम। क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम्
न च कालमतीतं ते निवेदयति कालवित्। त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः। अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव। हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि
नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते। चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर। किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च
शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर। कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे
कामं खलु शरैः शक्तः सुरासुरमहोरगान्। वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते
प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम्। तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे
देवदानवगन्धर्वा असुराः समरुद्गणाः। न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः