मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य। युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः
क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रनृत्ता इव नीलकण्ठैः। क्वचित् प्रमत्ता इव वारणेन्द्रै- र्विभान्त्यनेकाश्रयिणो वनान्ताः
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्मधुवारिपूर्णा। मयूरमत्ताभिरुतप्रनृत्तै- रापानभूमिप्रतिमा विभाति
मुक्तासमाभं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम्। हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति
षट्पादतन्त्रीमधुराभिधानं प्लवंगमोदीरितकण्ठतालम्। आविष्कृतं मेघमृदङ्गनादै- र्वनेषु संगीतमिव प्रवृत्तम्
क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः। व्यालम्बबर्हाभरणैर्मयूरै- र्वनेषु संगीतमिव प्रवृत्तम्
स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम्। अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति
नद्यः समुद्वाहितचक्रवाका- स्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्रावृतपूर्णभोगा- दृतं स्वभर्तारमुपोपयान्ति
नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः। दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः
प्रमत्तसंनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि। चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि
नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि। कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः। रम्या नगेन्द्राः निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः
मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः। नदीस्तटाकानि सरांसि वापी- र्महीं च कृत्स्नामपवाहयन्ति
वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः। प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः
नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः। घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति
घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति। नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः
महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति। महाप्रमाणैर्विपुलैः प्रपातै- र्मुक्ताकलापैरिव लम्बमानैः
शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः। गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति
शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम्। मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते
सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः। पतन्ति चातुला दिक्षु तोयधाराः समन्ततः
विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः। विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः
वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते। वैराणि चैव मार्गाश्च सलिलेन समीकृताः
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्। अयमध्यायसमयः सामगानामुपस्थितः
निवृत्तकर्मायतनो नूनं संचितसंचयः। आषाढीमभ्युपगतो भरतः कोसलाधिपः
नूनमापूर्यमाणायाः सरय्वा वर्धते रयः। मां समीक्ष्य समायान्तमयोध्याया इव स्वनः
इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते। विजितारिः सदारश्च राज्ये महति च स्थितः
अहं तु हृतदारश्च राज्याच्च महतश्च्युतः। नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण
शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः। रावणश्च महाञ्छत्रुरपारः प्रतिभाति मे
अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्। प्रणते चैव सुग्रीवे न मया किंचिदीरितम्
अपि चापि परिक्लिष्टं चिराद् दारैः समागतम्। आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्