वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि। वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति
समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति
मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपंक्तिः। वातावधूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन। गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन
निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति। हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति
जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः। जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति। नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगमाः
धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः। क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति
अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः। जम्बूद्रुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदौघैः
तडित्पताकाभिरलंकृताना- मुदीर्णगम्भीरमहारवाणाम्। विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वारणानाम्
मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य। युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः
क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रनृत्ता इव नीलकण्ठैः। क्वचित् प्रमत्ता इव वारणेन्द्रै- र्विभान्त्यनेकाश्रयिणो वनान्ताः
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्मधुवारिपूर्णा। मयूरमत्ताभिरुतप्रनृत्तै- रापानभूमिप्रतिमा विभाति
मुक्तासमाभं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम्। हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति
षट्पादतन्त्रीमधुराभिधानं प्लवंगमोदीरितकण्ठतालम्। आविष्कृतं मेघमृदङ्गनादै- र्वनेषु संगीतमिव प्रवृत्तम्
क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः। व्यालम्बबर्हाभरणैर्मयूरै- र्वनेषु संगीतमिव प्रवृत्तम्
स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम्। अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति
नद्यः समुद्वाहितचक्रवाका- स्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्रावृतपूर्णभोगा- दृतं स्वभर्तारमुपोपयान्ति
नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः। दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः
प्रमत्तसंनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि। चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि
नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि। कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति
मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः। रम्या नगेन्द्राः निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः
मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः। नदीस्तटाकानि सरांसि वापी- र्महीं च कृत्स्नामपवाहयन्ति
वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः। प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः
नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः। घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति
घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति। नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः
महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति। महाप्रमाणैर्विपुलैः प्रपातै- र्मुक्ताकलापैरिव लम्बमानैः
शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः। गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति
शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम्। मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते
सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः। पतन्ति चातुला दिक्षु तोयधाराः समन्ततः