अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये। दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्
लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम्। राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया
एष शोकः परित्यक्तः सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्
उपकारेण वीरस्तु प्रतिकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः
तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्
यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः
नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह। वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समर्थः
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-
स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च। वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्
अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः। सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः
नवमासधृतं गर्भं भास्करस्य गभस्तिभिः। पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्
शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः। कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः
संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः। स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्
मन्दमारुतिनिःश्वासं संध्याचन्दनरञ्जितम्। आपाण्डुजलदं भाति कामातुरमिवाम्बरम्
एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति
मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः
एष फुल्लार्जुनः शैलः केतकैरभिवासितः। सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाः प्राधीता इव पर्वताः
कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्। अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्
नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे। स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः
क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्। कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु। मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्
रजः प्रशान्तं सहिमोऽद्य वायु- र्निदाघदोषप्रसराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्
सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः। अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति
क्वचित् प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति। क्वचित् क्वचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य
व्यामिश्रितं सर्जकदम्बपुष्पै- र्नवं जलं पर्वतधातुताम्रम्। मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति
रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम्। अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्
विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः। गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः