सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे। वसतस्तस्य रामस्य रतिरल्पापि नाभवत्
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्। उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः
आविवेश न तं निद्रा निशासु शयनं गतम्। तत्समुत्थेन शोकेन बाष्पोपहतचेतनम्
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्। तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि। शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते
भवान् क्रियापरो लोके भवान् देवपरायणः। आस्तिको धर्मशीलश्च व्यवसायी च राघव
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्
समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु। ततः सपरिवारं तं राक्षसं हन्तुमर्हसि
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्। परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः। ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये। दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्
लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम्। राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया
एष शोकः परित्यक्तः सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्
उपकारेण वीरस्तु प्रतिकारेण युज्यते। अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः
तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्। उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्
यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः। शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः
नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह। वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समर्थः
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-
स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च। वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्
अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः। सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः
नवमासधृतं गर्भं भास्करस्य गभस्तिभिः। पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्
शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः। कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः
संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः। स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्
मन्दमारुतिनिःश्वासं संध्याचन्दनरञ्जितम्। आपाण्डुजलदं भाति कामातुरमिवाम्बरम्
एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति
मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः
एष फुल्लार्जुनः शैलः केतकैरभिवासितः। सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाः प्राधीता इव पर्वताः