विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसंघुष्टं मयूरवरनादितम्
मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता। नातिदूरे गुहाया नौ भविष्यति नृपात्मज
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति। पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति
गुहाद्वारे च सौमित्रे शिला समतला शिवा। कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्। भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम्। कैलासशिखरप्रख्यं नानाधातुविराजितम्
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्। गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव
चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः। पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्
वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि। हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः। वसनाभरणोपेता प्रमदेवाभ्यलंकृता
शतशः पक्षिसङ्घैश्च नानानादविनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलंकृता
पुलिनैरतिरम्यैश्च हंससारससेविता। प्रहसन्त्येव भात्येषा नानारत्नसमन्विता
क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित्। क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता। रमणीया नदी सौम्य मुनिसङ्घनिषेविता
पश्य चन्दनवृक्षाणां पङ्क्तिः सुरुचिरा इव। ककुभानां च दृश्यन्ते मनसैवोदिताः समम्
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन। दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना। सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः। ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्
इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः। बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ
सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे। वसतस्तस्य रामस्य रतिरल्पापि नाभवत्
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्। उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः
आविवेश न तं निद्रा निशासु शयनं गतम्। तत्समुत्थेन शोकेन बाष्पोपहतचेतनम्
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्। तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि। शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते
भवान् क्रियापरो लोके भवान् देवपरायणः। आस्तिको धर्मशीलश्च व्यवसायी च राघव
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्
समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु। ततः सपरिवारं तं राक्षसं हन्तुमर्हसि
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्। परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः। ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि