निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः। रुमां च भार्यामुपलभ्य वीर्यवा- नवाप राज्यं त्रिदशाधिपो यथा
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्। आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्। नानागुल्मलतागूढं बहुपादपसंकुलम्
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्। मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम्
तस्य शैलस्य शिखरे महतीमायतां गुहाम्। प्रत्यगृह्णीत वासार्थं रामः सौमित्रिणा सह
कृत्वा च समयं रामः सुग्रीवेण सहानघः। कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्। इयं गिरिगुहा रम्या विशाला युक्तमारुता
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम। गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्। नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम्
विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्। नानाविहगसंघुष्टं मयूरवरनादितम्
मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता। नातिदूरे गुहाया नौ भविष्यति नृपात्मज
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति। पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति
गुहाद्वारे च सौमित्रे शिला समतला शिवा। कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्। भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम्। कैलासशिखरप्रख्यं नानाधातुविराजितम्
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्। गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव
चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः। पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्
वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि। हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः। वसनाभरणोपेता प्रमदेवाभ्यलंकृता
शतशः पक्षिसङ्घैश्च नानानादविनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलंकृता
पुलिनैरतिरम्यैश्च हंससारससेविता। प्रहसन्त्येव भात्येषा नानारत्नसमन्विता
क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित्। क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता। रमणीया नदी सौम्य मुनिसङ्घनिषेविता
पश्य चन्दनवृक्षाणां पङ्क्तिः सुरुचिरा इव। ककुभानां च दृश्यन्ते मनसैवोदिताः समम्
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन। दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना। सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः। ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्
इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः। बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ