ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः। प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्। अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः
इयं गिरिगुहा रम्या विशाला युक्तमारुता। प्रभूतसलिला सौम्य प्रभूतकमलोत्पला
कार्तिके समनुप्राप्ते त्वं रावणवधे यत। एष नः समयः सौम्य प्रविश त्वं स्वमालयम्
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय। इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्। तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्
अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम्। ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्
प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः। सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः। प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः। तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्
शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा रत्नानि सर्वाणि सर्वबीजौषधानि च
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्
अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी। दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ
समालम्भनमादाय गोरोचनमनःशिलाम्। आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश
ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि। रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्। मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते
प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने। नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलं जलम्
शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च
गजो गवाक्षो गवयः शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा
अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्रशः
रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः। अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः। साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन्
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः। प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता। बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः। रुमां च भार्यामुपलभ्य वीर्यवा- नवाप राज्यं त्रिदशाधिपो यथा
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-