ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम्। शाखामृगमहामात्राः परिवार्योपतस्थिरे
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्। स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः। अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः
भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत्। वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्
महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो। भवता समनुज्ञातः प्रविश्य नगरं शुभम्
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः। स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि
अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः। इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय। एवमुक्तो हनुमता राघवः परवीरहा
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः। चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः। सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः
प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम्। एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्। इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः। प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्। अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः
इयं गिरिगुहा रम्या विशाला युक्तमारुता। प्रभूतसलिला सौम्य प्रभूतकमलोत्पला
कार्तिके समनुप्राप्ते त्वं रावणवधे यत। एष नः समयः सौम्य प्रविश त्वं स्वमालयम्
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय। इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्। तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्
अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम्। ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्
प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः। सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः। प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः। तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्
शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा रत्नानि सर्वाणि सर्वबीजौषधानि च
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्
अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी। दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ
समालम्भनमादाय गोरोचनमनःशिलाम्। आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश
ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि। रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्। मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते