अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः। तासां रुदितशब्देन वानरीणां वनान्तरे
वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः। पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते
चितां चक्रुः सुबहवो वानरा वनचारिणः। अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः
तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः। ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता। हा वानरमहाराज हा नाथ मम वत्सल
हा महार्ह महाबाहो हा मम प्रिय पश्य माम्। जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्
प्रहृष्टमिह ते वक्त्रं गतासोरपि मानद। अस्तार्कसमवर्णं च दृश्यते जीवतो यथा
एष त्वां रामरूपेण कालः कर्षति वानर। येन स्म विधवाः सर्वाः कृता एकेषुणा रणे
इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव। पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे
तवेष्टा ननु चैवेमा भार्याश्चन्द्रनिभाननाः। इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर
एते हि सचिवा राजंस्तारप्रभृतयस्तव। पुरवासिजनश्चायं परिवार्य विषीदति
विसर्जयैनान् सचिवान् यथापुरमरिंदम। ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः
एवं विलपतीं तारां पतिशोकपरीवृताम्। उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः
सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन्। चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः
ततोऽग्निं विधिवद् दत्त्वा सोऽपसव्यं चकार ह। पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः
संस्कृत्य वालिनं तं तु विधिवत् प्लवगर्षभाः। आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम्
ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः। सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः। समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्
ततोऽथ तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम्। प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम्। शाखामृगमहामात्राः परिवार्योपतस्थिरे
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्। स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः। अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः
भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत्। वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्
महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो। भवता समनुज्ञातः प्रविश्य नगरं शुभम्
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः। स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि
अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः। इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय। एवमुक्तो हनुमता राघवः परवीरहा
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः। चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः। सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः