स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना। स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः। तदलं परितापेन प्राप्तकालमुपास्यताम्
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा। अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्। ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च। चन्दनानि च दिव्यानि वालिसंस्कारकारणात्
समाश्वासय दीनं त्वमङ्गदं दीनचेतसम्। मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च। घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्। त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः
सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः। समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः। तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः
आदाय शिबिकां तारः स तु पर्यापतत् पुनः। वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनायुताम्
सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम्। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्
पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च। तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्
ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्। क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा। आरोपयत विक्रोशन्नङ्गदेन सहैव तु
आरोप्य शिबिकां चैव वालिनं गतजीवितम्। अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्
आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः। और्ध्वदेहिकमार्यस्य क्रियतामनुकूलतः
विश्राणयन्तो रत्नानि विविधानि बहूनि च। अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः। तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्। अङ्गदं परिरभ्याशु तारप्रभृतयस्तदा
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः। ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः
चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम्। ताराप्रभृतयः सर्वा वानर्यो हतबान्धवाः
अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः। तासां रुदितशब्देन वानरीणां वनान्तरे
वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः। पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते
चितां चक्रुः सुबहवो वानरा वनचारिणः। अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः
तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः। ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्
आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता। हा वानरमहाराज हा नाथ मम वत्सल