आर्तामनाथामपनीयमाना- मेवंगतां नार्हसि मामहन्तुम्। अहं हि मातङ्गविलासगामिना प्लवंगमानामृषभेण धीमता। विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे। मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत् तेन कृतं विधात्रा। त्रयोऽपि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम्। धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति
आश्वासिता तेन महात्मना तु प्रभावयुक्तेन परंतपेन। सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-
स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः। समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्
न शोकपरितापेन श्रेयसा युज्यते मृतः। यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्। न कालादुत्तरं किंचित् कर्मशक्यमुपासितुम्
नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्
न कर्ता कस्यचित् कश्चिन्नियोगे नापि चेश्वरः। स्वभावे वर्तते लोकस्तस्य कालः परायणम्
न कालः कालमत्येति न कालः परिहीयते। स्वभावं च समासाद्य न कश्चिदतिवर्तते
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः। न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः
किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता। धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्। सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना। स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः। तदलं परितापेन प्राप्तकालमुपास्यताम्
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा। अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्। ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च। चन्दनानि च दिव्यानि वालिसंस्कारकारणात्
समाश्वासय दीनं त्वमङ्गदं दीनचेतसम्। मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च। घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्
त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्। त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः
सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः। समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः। तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा
लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः
आदाय शिबिकां तारः स तु पर्यापतत् पुनः। वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः
दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्। पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्
आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः। विमानमिव सिद्धानां जालवातायनायुताम्
सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम्। दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्