अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम्। अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम्
महाबलानां हरियूथपाना- मिदं कुलं राघव मन्निमित्तम्। अस्याङ्गदस्यापि च शोकतापा- दर्धस्थितप्राणमितीव मन्ये
सुतः सुलभ्यः सुजनः सुवश्यः कुतस्तु पुत्रः सदृशोऽङ्गदेन। न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः
अद्याङ्गदो वीरवरो न जीवे- ज्जीवेत माता परिपालनार्थम्। विना तु पुत्रं परितापदीना सा नैव जीवेदिति निश्चितं मे
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन्। इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे परिवर्तमानाः
कृत्स्नं तु ते सेत्स्यति कार्यमेत- न्मय्यप्यतीते मनुजेन्द्रपुत्र। कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्
तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता। रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्
तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम्। उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम्
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना। ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्
सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा। अदृष्टपूर्वं पुरुषप्रधान- मयं स काकुत्स्थ इति प्रजज्ञे
तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या। आर्तातितूर्णं व्यसनं प्रपन्ना जगाम तारा परिविह्वलन्ती
तं सा समासाद्य विशुद्धसत्त्वं शोकेन सम्भ्रान्तशरीरभावा। मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्ष्यम्
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधर्मकश्च। अक्षीणकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः
त्वमात्तबाणासनबाणपाणि- र्महाबलः संहननोपपन्नः। मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः
येनैव बाणेन हतः प्रियो मे तेनैव बाणेन हि मां जहीहि। हता गमिष्यामि समीपमस्य न मां विना वीर रमेत वाली
स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली। रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्
त्वं वेत्थ तावद् वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः। तत् त्वं प्रजानञ्जहि मां न वाली दुःखं ममादर्शनजं भजेत
यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषस्तु भवेन्न मह्यम्। आत्मेयमस्येति हि मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र
शास्त्रप्रयोगाद् विविधाश्च वेदा- दनन्यरूपाः पुरुषस्य दाराः। दारप्रदानाद्धि न दानमन्यत् प्रदृश्यते ज्ञानवतां हि लोके
त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर। अनेन दानेन न लप्स्यसे त्व- मधर्मयोगं मम वीर घातात्
आर्तामनाथामपनीयमाना- मेवंगतां नार्हसि मामहन्तुम्। अहं हि मातङ्गविलासगामिना प्लवंगमानामृषभेण धीमता। विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्
इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे। मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा
तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत् तेन कृतं विधात्रा। त्रयोऽपि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य
प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम्। धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति
आश्वासिता तेन महात्मना तु प्रभावयुक्तेन परंतपेन। सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-
स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः। समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्
न शोकपरितापेन श्रेयसा युज्यते मृतः। यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्। न कालादुत्तरं किंचित् कर्मशक्यमुपासितुम्
नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्