राज्यश्रीर्न जहाति त्वां गतासुमपि मानद। सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव। हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-
तामाशु वेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन। पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे
स बाष्पपूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमना मनस्वी। जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः
स तं समासाद्य गृहीतचाप- मुदात्तमाशीविषतुल्यबाणम्। यशस्विनं लक्षणलक्षिताङ्ग- मवस्थितं राघवमित्युवाच
यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म। ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तं हतजीवितेन
अस्यां महिष्यां तु भृशं रुदत्यां पुरेऽतिविक्रोशति दुःखतप्ते। हते नृपे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे
क्रोधादमर्षादतिविप्रधर्षाद् भ्रातुर्वधो मेऽनुमतः पुरस्तात्। हते त्विदानीं हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन् हि वासश्चिरमृष्यमूके। यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः
न त्वा जिघांसामि चरेति यन्मा- मयं महात्मा मतिमानुवाच। तस्यैव तद् राम वचोऽनुरूप- मिदं वचः कर्म च मेऽनुरूपम्
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राम विरोचयेत। राज्यस्य दुःखस्य च वीर सारं विचिन्तयन् कामपुरस्कृतोऽपि
वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात्। ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन्। सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः। मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्
अचिन्तनीयं परिवर्जनीय- मनीप्सनीयं स्वनवेक्षणीयम्। प्राप्तोऽस्मि पाप्मानमिदं वयस्य भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च। को नाम पाप्मानमिमं सहेत शाखामृगस्य प्रतिपत्तुमिच्छेत्
नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्। अधर्मयुक्तं कुलनाशयुक्त- मेवंविधं राघव कर्म कृत्वा
पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके। शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः
सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः। एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः
अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम्। अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम्
महाबलानां हरियूथपाना- मिदं कुलं राघव मन्निमित्तम्। अस्याङ्गदस्यापि च शोकतापा- दर्धस्थितप्राणमितीव मन्ये
सुतः सुलभ्यः सुजनः सुवश्यः कुतस्तु पुत्रः सदृशोऽङ्गदेन। न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः
अद्याङ्गदो वीरवरो न जीवे- ज्जीवेत माता परिपालनार्थम्। विना तु पुत्रं परितापदीना सा नैव जीवेदिति निश्चितं मे
सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन्। इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे परिवर्तमानाः
कृत्स्नं तु ते सेत्स्यति कार्यमेत- न्मय्यप्यतीते मनुजेन्द्रपुत्र। कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्
तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता। रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्
तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम्। उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम्
सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना। ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्
सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा। अदृष्टपूर्वं पुरुषप्रधान- मयं स काकुत्स्थ इति प्रजज्ञे