गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा। तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः
अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव। पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्। अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्। रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना। अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्
अभिवादय राजानं पितरं पुत्र मानदम्। एवमुक्तः समुत्थाय जग्राह चरणौ पितुः
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्। अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे। अहं पुत्रसहाया त्वामुपासे गतचेतनम्। सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम्
इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा। तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना
या दत्ता देवराजेन तव तुष्टेन संयुगे। शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम्
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद। सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव। हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-
तामाशु वेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन। पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे
स बाष्पपूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमना मनस्वी। जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः
स तं समासाद्य गृहीतचाप- मुदात्तमाशीविषतुल्यबाणम्। यशस्विनं लक्षणलक्षिताङ्ग- मवस्थितं राघवमित्युवाच
यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म। ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तं हतजीवितेन
अस्यां महिष्यां तु भृशं रुदत्यां पुरेऽतिविक्रोशति दुःखतप्ते। हते नृपे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे
क्रोधादमर्षादतिविप्रधर्षाद् भ्रातुर्वधो मेऽनुमतः पुरस्तात्। हते त्विदानीं हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये
श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन् हि वासश्चिरमृष्यमूके। यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः
न त्वा जिघांसामि चरेति यन्मा- मयं महात्मा मतिमानुवाच। तस्यैव तद् राम वचोऽनुरूप- मिदं वचः कर्म च मेऽनुरूपम्
भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राम विरोचयेत। राज्यस्य दुःखस्य च वीर सारं विचिन्तयन् कामपुरस्कृतोऽपि
वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात्। ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः
द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन्। सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि
भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः। मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्
अचिन्तनीयं परिवर्जनीय- मनीप्सनीयं स्वनवेक्षणीयम्। प्राप्तोऽस्मि पाप्मानमिदं वयस्य भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च। को नाम पाप्मानमिमं सहेत शाखामृगस्य प्रतिपत्तुमिच्छेत्
नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम्। अधर्मयुक्तं कुलनाशयुक्त- मेवंविधं राघव कर्म कृत्वा
पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके। शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः
सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः। एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः