देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये। सुखदुःखसहः काले सुग्रीववशगो भव
यथा हि त्वं महाबाहो लालितः सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महादोषं तस्मादन्तरदृग् भव
इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम्। विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः
ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः। परिदेवयमानास्ते सर्वे प्लवगसत्तमाः
किष्किन्धा ह्यद्य शून्या च स्वर्गते वानरेश्वरे। उद्यानानि च शून्यानि पर्वताः काननानि च
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः। यस्य वेगेन महता काननानि वनानि च
पुष्पौघेणानुबद्ध्यन्ते करिष्यति तदद्य कः। येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च। नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति
ततः षोडशमे वर्षे गोलभो विनिपातितः। तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान्। सर्वाभयंकरोऽस्माकं कथमेष निपातितः
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे। वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ
ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा। जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्। पतिं लोकश्रुता तारा मृतं वचनमब्रवीत्
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम। उपलोपचिते वीर सुदुःखे वसुधातले
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव। शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो। सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते। तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे। इदं तद् वीरशयनं तत्र शेषे हतो युधि
शायिता निहता यत्र त्वयैव रिपवः पुरा। विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय
मामनाथां विहायैकां गतस्त्वमसि मानद। शूराय न प्रदातव्या कन्या खलु विपश्चिता
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्। अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः
अगाधे च निमग्नास्मि विपुले शोकसागरे। अश्मसारमयं नूनमिदं मे हृदयं दृढम्
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम्। सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः
प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः। पतिहीना तु या नारी कामं भवतु पुत्रिणी
धनधान्यसमृद्धापि विधवेत्युच्यते जनैः। स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले
कृमिरागपरिस्तोमे स्वकीये शयने यथा। रेणुशोणितसंवीतं गात्रं तव समन्ततः
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ। कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे
यस्य रामविमुक्तेन हृतमेकेषुणा भयम्। शरेण हृदि लग्नेन गात्रसंस्पर्शने तव
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते। उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा