संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम
नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्। आदावेव तु सुग्रीवं ददर्शानुजमग्रतः
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात्। कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्
युगपद् विहितं तात न मन्ये सुखमावयोः। सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्। मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्
जीवितं च हि राज्यं च श्रियं च विपुलां तथा। प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः। यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्। बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्। मया हीनमहीनार्थं सर्वतः परिपालय
त्वमप्यस्य पिता दाता परित्राता च सर्वशः। भयेष्वभयदश्चैव यथाहं प्लवगेश्वर
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां च वधे तेषामग्रतस्ते भविष्यति
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे। करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया। स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्। उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि
इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्। हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्
तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः। जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्
तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम्। संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये। सुखदुःखसहः काले सुग्रीववशगो भव
यथा हि त्वं महाबाहो लालितः सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते
न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महादोषं तस्मादन्तरदृग् भव
इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम्। विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः
ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः। परिदेवयमानास्ते सर्वे प्लवगसत्तमाः