ततो निपतितां तारां च्युतां तारामिवाम्बरात्। शनैराश्वासयामास हनुमान् हरियूथपः
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम्। अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे। कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया। आयत्यां च विधेयानि समर्थान्यस्य चिन्तय
जानास्यनियतामेवं भूतानामागतिं गतिम्। तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम्
यस्मिन् हरिसहस्राणि शतानि नियुतानि च। वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः
यदयं न्यायदृष्टार्थः सामदानक्षमापरः। गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि
सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः। हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि। त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्
संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्। राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम
नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा। अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्। आदावेव तु सुग्रीवं ददर्शानुजमग्रतः
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात्। कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्
युगपद् विहितं तात न मन्ये सुखमावयोः। सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्। मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्
जीवितं च हि राज्यं च श्रियं च विपुलां तथा। प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः। यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्। बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्। मया हीनमहीनार्थं सर्वतः परिपालय
त्वमप्यस्य पिता दाता परित्राता च सर्वशः। भयेष्वभयदश्चैव यथाहं प्लवगेश्वर
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां च वधे तेषामग्रतस्ते भविष्यति
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे। करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता