निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता। यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी
रूपयौवनदृप्तानां दक्षिणानां च मानद। नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि
कालो निःसंशयो नूनं जीवितान्तकरस्तव। बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम्
अस्थाने वालिनं हत्वा युध्यमानं परेण च। न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम्
वैधव्यं शोकसंतापं कृपणाकृपणा सती। अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः। वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्। दुर्लभं दर्शनं तस्य तव वत्स भविष्यति
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे। मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे। भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे। इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः। परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः
किमङ्गदं साङ्गदवीरबाहो विहाय यातोऽसि चिरं प्रवासम्। न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियचारुवेषम्
यद्यप्रियं किंचिदसम्प्रधार्य कृतं मया स्यात् तव दीर्घबाहो। क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः। व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-
ततो निपतितां तारां च्युतां तारामिवाम्बरात्। शनैराश्वासयामास हनुमान् हरियूथपः
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम्। अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे। कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया। आयत्यां च विधेयानि समर्थान्यस्य चिन्तय
जानास्यनियतामेवं भूतानामागतिं गतिम्। तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम्
यस्मिन् हरिसहस्राणि शतानि नियुतानि च। वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः
यदयं न्यायदृष्टार्थः सामदानक्षमापरः। गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि
सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः। हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि। त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्
संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्। राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्। सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता। अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्। हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा। पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति। पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम