रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-
There were washers, tailors, great village and hamlet folk, actors with their wives, and boatmen as well.
समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-
Thousands of Brahmins, learned in the Vedas and respected for their conduct, followed Bharata with cows and chariots.
सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-
All of them, well-dressed, in clean garments, adorned with polished copper ornaments, followed Bharata slowly in various vehicles.
प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-
The army, joyful and delighted, accompanied Kaikeyī's son Bharata, who was devoted to his brother and was going to bring him back.
ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-
Having traveled a long distance by chariots, vehicles, horses, and elephants, they reached the Gaṅgā near Śṛṅgiverapura.
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-
There, Rāma's friend, the heroic Guha, surrounded by his kinsmen, dwelt vigilantly, protecting that region.
उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-
Reaching the bank of the Gaṅgā, adorned with wheels and axes, that army accompanying Bharata halted there.
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-
Seeing the army that had followed and the auspicious waters of the Gaṅgā, Bharata, skilled in speech, addressed all his ministers:
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-
Set up my army everywhere as appropriate; after resting, we shall cross this great river tomorrow.
दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-
And I wish now to offer water for the departed king, for the sake of the funeral rites, having descended to the river.
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-
When he had spoken thus, his ministers, attentive, replied, 'So be it,' and stationed the army with their own contingents, each in their proper place.
निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम् ॥२-८३-
Having arrayed the army, resplendent with its equipment, along the great river Ganga, Bharata, pondering over Rama's return, remained there with his noble followers.
thumb|चतुरशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-
This is the eighty-fourth chapter in the Ayodhya Book of the glorious Vālmīki Rāmāyaṇa.
ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-
Then, seeing the army encamped along the Ganga river, the king of the Nishadas quickly spoke to his kinsmen.
महती इयम् अतः सेना सागर आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-
This great army, shining like the ocean, can be seen here; even after much thought, I cannot discern its end.
यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः । स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-
Indeed, Bharata himself, of formidable strength, has come, with a banner bearing the kovidāra tree on his chariot.
बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-
He may bind the Nishadas, or perhaps kill us; or, since Rama, son of Dasharatha, was exiled from the kingdom by his father—
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-
Bharata, son of Kaikeyi, seeking to obtain the rare fortune of kingship, may be coming to kill him.
भर्ता चैव सखा चैव रामः दाशरथिर् मम । तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-
Rama, son of Dasharatha, is both my lord and my friend; for his sake, let those devoted to him stand ready here on the bank of the Ganga.
तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-
Let all the Nishadas, strong and able, who live along the Ganga, remain here, guarding the river and subsisting on meat, roots, and fruits.
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-
Let five hundred boatmen, well-armed and youthful, stand ready, each group of a hundred for each hundred boats.
यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-
When Bharata is satisfied with Rama here, then this army, blessed with good fortune, will cross the Ganga today.
इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च । अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-
Having spoken thus and taking gifts of fish, meat, and honey, Guha, the lord of the Nishadas, approached Bharata.
तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-
Seeing him approaching, Sumantra, the wise and courteous charioteer, informed Bharata accordingly.
एष ज्ञाति सहस्रेण स्थपतिः परिवारितः । कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-
This is Guha, the chief, surrounded by a thousand kinsmen, skilled in the Dandaka forest, elder, and your brother's friend.
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः । असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-
Therefore, let Guha, the Nishada chief, see you, descendant of Kakutstha; without doubt, he knows where Rama and Lakshmana are.
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-
Hearing these auspicious words from Sumantra, Bharata quickly said, 'Let Guha see me.'
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-
Having received permission, delighted and surrounded by his kinsmen, Guha approached Bharata and, bowing, spoke these words.
निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-
This place is a settlement, and we too have been deceived; we all inform you—stay in your own community of servants.
अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-
There are roots and fruits brought by the Niṣādas, as well as fresh and dried meat, and abundant wild food, both high and low.