अपरे वीरण स्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-
Others, strong and even stronger, broke up the dense thickets of reeds and cleared the difficult terrains here and there.
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-
Some filled up wells with sand and deep pits, while others leveled the low-lying areas all around.
बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा । बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-
They bound what needed to be bound, cleared what needed to be cleared, and broke open those places that required breaking.
अचिरेण एव कालेन परिवाहान् बहु उदकान् । चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-
In a short time, they created many water channels, varied in form and vast like the sea.
निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-
In dry regions, they dug many excellent wells, adorned with platforms of various shapes.
ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः । मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-
With plastered floors, blossoming trees, the calls of intoxicated birds, and adorned with flags, the path was splendid.
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः । बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-
Sprinkled with sandal water and decorated with various flowers, the army’s route shone, resembling the path to heaven.
आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-
Then, those appointed officials, acting according to orders, chose delightful places rich with sweet fruits.
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-
The settlement desired by the noble Bharata was further adorned with ornaments, making it resemble a jewel.
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-
Experts, choosing auspicious stars and moments, established the settlement for the great-souled Bharata.
बहु पाम्सु चयाः च अपि परिखा परिवारिताः । तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-
Surrounded by moats piled high with sand, with posts like those of Indra’s machinery, and splendid main gates, it was beautiful.
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः । पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-
With rows of palaces, enclosed by mansions and walls, all adorned with flags, and broad, well-constructed roads.
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-
With tall buildings whose upper stories seemed to glide in the sky, the settlements appeared like the city of Indra.
जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् । शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-
Reaching the Ganges, filled with various groves of trees, with cool, pure water, and teeming with great fish.
सचन्द्र तारा गण मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर इन्द्र मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-
Just as the spotless sky shines at night adorned with the moon and stars, so did the royal road, delightful and skillfully built, shine in succession.
thumb|एकाशीतितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-
Hear now the eighty-first sarga in the Ayodhya Kanda of the glorious Vālmīki Rāmāyaṇa.
ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-
Then, during the auspicious night, bards and minstrels praised Bharata with words of blessing and songs filled with good omens.
सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-
The hour-drum, struck with golden edges, resounded; hundreds of conches were blown, and instruments played notes both high and low.
स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-
That great sound of musical instruments, as if filling the sky, only deepened the sorrow of Bharata, who was already consumed by grief.
ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-
Then Bharata, awakened and halting that noise, declared, 'I am not king,' and spoke these words to Shatrughna.
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-
See, Shatrughna, what great harm Kaikeyi has done to the people: abandoning me to sorrow, King Dasharatha has departed.
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-
The royal fortune of that righteous, high-souled king, rooted in dharma, now wanders aimlessly like a rudderless boat on water.
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-
Even Rama, our mighty protector, has been banished to the forest by my mother, who has abandoned righteousness.
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-
Seeing Bharata lamenting in this way, distraught and pitiable, all the women there wept aloud.
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-
As Bharata grieved thus, the illustrious Vasishta, knower of royal duty, entered the assembly hall of the Ikshvaku lord.
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-
He entered the splendid hall, made of polished clay, adorned with gems and jewels, resembling Sudharma and filled with attendants.
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-
The knower of all the Vedas sat upon a golden throne, covered with the finest cloth, and gave instructions to the messengers.
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-
Bring here quickly and without delay the Brahmins, Kshatriyas, warriors, ministers, and leaders of the people, for we have urgent business.
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-
Bring Shatrughna, loyal to the king, the illustrious Bharata, Yudhajit, Sumantra, and all those loyal people present there.
ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-
Then a great tumult arose as people arrived in chariots, on horses, and on elephants.