उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् । आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-
The king, removed from the oil bath and placed on the ground, his face drained of color, lay as if asleep.
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते । ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-
Laid upon a splendid couch adorned with various jewels, the son of Daśaratha lamented, overwhelmed by sorrow.
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते । विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-
O king, what did you resolve, exiling righteous Rāma and mighty Lakṣmaṇa, while I was away and had not yet returned?
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् । हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-
Where will you go, great king, leaving behind these sorrowful people, deprived of Rāma, the lion among men, whose deeds are blameless?
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-
O king, who will ensure your city’s welfare and security now, when you have departed to heaven and Rāma has gone to the forest?
विधवा पृथिवी राजम्स् त्वया हीना न राजते । हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-
O king, the earth, bereft of you, shines not, like a night without the moon; the city appears to me the same.
एवम् विलपमानम् तम् भरतम् दीन मानसम् । अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-
As Bharata thus lamented, his mind cast down, the great sage Vasiṣṭha again spoke these words to him.
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः । तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-
Whatever funeral rites must be performed for this lord of men, let them be done promptly, mighty-armed one, without hesitation.
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् । ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-
‘So be it,’ said Bharata, honoring Vasiṣṭha’s words, and quickly summoned all the priests, family chaplains, and teachers.
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः । ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-
Those who had been stationed outside the fire-chamber of the lord of men were led away by the officiating priests and sacrificers, according to proper rites.
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् । बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-
Then, having placed the king, whose consciousness had departed, upon a bier in Shibilā, the attendants, their throats choked with tears and minds distressed, carried him away.
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च । प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-
People went ahead of the king, scattering gold, ornaments of gold, and various garments along the path.
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा । देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-
Others gathered sandalwood, aloe, resin, pine, lotus wood, and divine woods, and prepared the funeral pyre.
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् । ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-
There, after offering fragrant substances both rare and common, they placed the king in the midst of the pyre, the priests arranging him.
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः । जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-
Then, having offered the prescribed oblations, the priests recited prayers for him; and the singers of the Sāma Veda chanted the Sāma hymns according to scripture.
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः । नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-
His wives, accompanied by elders, departed from the city in palanquins and carriages, as befitted their status.
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् । स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-
The priests performed the funeral rites for the king, who was placed upon the pyre, and the women, led by Kausalyā, were then consumed by grief.
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे । आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-
There arose the sound of women, like that of cranes, thousands crying out in anguish, their voices filled with sorrow.
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः । यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-
Then, overwhelmed and weeping, lamenting again and again, the noble women descended from their vehicles to the bank of the Sarayu.
कृत उदकम् ते भरतेन सार्धम् । नृप अन्गना मन्त्रि पुरोहिताः च । पुरम् प्रविश्य अश्रु परीत नेत्रा । भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-
Together with Bharata, the king's wives, ministers, and priests performed the water rites; entering the city with tear-filled eyes, they spent ten days in sorrow upon the ground.
thumb|सप्तसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-
The seventy-seventh chapter is to be heard.
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-
Then, after ten days had passed and purification was completed, the king's son, on the twelfth day, performed the funeral rites.
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-
He gave to the Brāhmaṇas abundant jewels, wealth, and food, as well as costly garments and various precious stones.
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-
He gave to the Brāhmaṇas many white blankets, hundreds of cows, male and female servants, vehicles, and grand houses.
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-
The king's son gave these gifts to the Brāhmaṇas for his father's funeral rites; then, at dawn on the thirteenth day,
विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-
Bharata, mighty-armed and overcome with grief, his throat choked with emotion, lamented as he approached for purification.
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-
At the foot of the pyre, deeply afflicted, he spoke these words to his father:
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-
When you entrusted me to Rāghava, who has gone to the forest, you abandoned me, just as a son is left behind when his protector departs for the wilderness.
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-
O dear one, having abandoned your mother Kausalya, where have you gone, O king? Seeing that reddish ash and the circle of burnt bones—
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-
Beholding the extinction of his father's body, he wailed and was overcome; seeing this, he, miserable and weeping, fell to the ground.