व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-
When that night had passed and he recalled that troubling dream, the son of the great king was deeply distressed.
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-
Noticing his distress, his dear friends, wishing to relieve his sorrow, began to tell stories in the assembly.
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-
Some played music to soothe him, others danced, and yet others performed various plays and comedies.
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः । गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-
But the noble Bharata, though surrounded by friends speaking kindly and making jokes, did not find joy.
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-
One dear friend, seated among the companions, said to Bharata, 'Why, my friend, do you not take pleasure?'
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-
To that friend who spoke thus, Bharata replied, 'Listen to the reason for this sadness that has come upon me.'
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् । पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-
'In a dream I saw my father, unkempt, with loosened hair, falling from a mountain peak into a muddy, filthy pool.'
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे । पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-
'I also saw him floating in that filthy pool, repeatedly drinking oil with his hands, as if laughing again and again.'
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः । तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-
'Then, after eating rice balls made of sesame, his head hanging down, his whole body smeared with oil, he immersed himself in oil again and again.'
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-
'In my dream I saw the ocean dried up, the moon fallen to the earth, and the blazing fire suddenly extinguished.'
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् । सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-
'The tusk of the royal elephant was shattered, and the blazing fire was suddenly extinguished.'
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् । अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-
'I saw the earth split open, many trees dried up, and mountains scattered and smoking.'
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् । प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-
Seated on an iron throne, dressed in black garments, the king was laughed at by women with dark and tawny complexions.
त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः । रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-
Hastening, righteous in nature, adorned with red garlands and ointments, he departed facing south in a chariot yoked with donkeys.
प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-
It seemed as though a woman in red attire, a demoness with distorted posture, was dragging the king away, as I saw.
एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् । अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-
Thus I saw this terrifying night; either I, Rama, the king, or Lakshmana will die.
नरः यानेन यः स्वप्ने खर युक्तेन याति हि । अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-
A man who, in a dream, travels in a vehicle drawn by donkeys soon sees the tip of smoke on the funeral pyre.
एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये । शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-
Because of this omen, I am distressed and do not honor you; my throat feels parched and my mind is not at ease.
न पश्यामि भयस्थानम् भयम् चैवोपधारये । भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-
I do not see any cause for fear, yet I perceive fear; my voice has lost its resonance and my shadow is diminished.
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-
As if feeling disgust toward myself, though I see no reason; hearing of this ill-omened dream, with its many forms and unforeseen course, great fear does not leave my heart, pondering the king's incomprehensible appearance.
thumb|सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-
The seventieth chapter is to be heard. In the glorious Vālmīki Rāmāyaṇa, in the Ayodhyā section, the seventieth chapter.
भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-
While Bharata was describing his dream, the messengers, their horses weary, entered the splendid royal palace and city, crossing the impassable moat.
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-
Having met the king and his son and been honored, they took hold of the king's feet and spoke these words to Bharata.
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-
The priest has conveyed his well-wishes to you, as have all the ministers; depart quickly, for urgent duty awaits you.
इमानि च महार्हाणि वस्त्राण्Yआभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-
Receive these precious garments and ornaments, O wide-eyed one, and give them to your maternal uncle.
अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-
Here are twenty crores from the king for your maternal uncle, and ten crores for you, the king's son.
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-
Having accepted all this, Bharata, affectionate toward his friends, addressed the messengers, honoring them with his wishes.
कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-
Is my father, King Dasharatha, well? Has any harm befallen Rama or the great-souled Lakshmana?
आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-
Is noble Kausalya, devoted to righteousness, wise in dharma and a perceiver of dharma, free from illness, the mother of wise Rama?
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-
Is Sumitra, knowledgeable in dharma, the mother of Lakshmana and the heroic Shatrughna, the middle one, also free from illness?