स्वागतम् ते महा बाहो तव इयम् अखिला मही । वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-
Welcome to you, mighty-armed one! This entire land is yours. We are your servants; you are our lord. Rule our kingdom well.
भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् । शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-
Here are foods to eat, to enjoy, to drink, and to taste, as well as the finest beds and fodder for your horses.
गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-
To Guha, who was speaking thus, Rāghava replied:
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् । पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-
We have indeed been honored and made joyful by you in every way—by your coming to us on foot and by your affectionate welcome.
भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् । दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-
Pressing Guha with his well-formed arms, he spoke: 'It is by good fortune, Guha, that I see you safe and well with your relatives.'
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च । यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् । सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-
Is all well with your kingdom, your friends, and your wealth? As for what you have kindly prepared for us, I accept it all, but I do not engage in receiving gifts.
कुश चीर अजिन धरम् फल मूल अशनम् च माम् । विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-
Know me as one who wears grass, bark, and deerskin, who lives on fruits and roots, devoted to righteousness, and dwelling in the forest like an ascetic.
अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् । एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-
I only require fodder for the horses, nothing else. By this alone, I shall be well honored by you here.
एते हि दयिता राज्ञः पितुर् दशरथस्य मे । एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-
For these horses are dear to my father, King Daśaratha. By providing well for these horses, I shall feel honored.
अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् । गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-
Guha then ordered his men to quickly provide water and fodder for the horses.
ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् । जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-
Then, wearing an upper garment of bark, having performed the evening twilight rites facing west, Rāma took only water for his meal, brought by Lakṣmaṇa himself.
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः । सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-
When Rāma lay down on the ground, Lakṣmaṇa washed his feet, and then, together with Sītā, stood nearby, taking shelter under a tree.
गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् । अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-
Guha, too, with his charioteer, conversed with Saumitri and, remaining vigilant and armed with a bow, stayed awake to guard Rāma.
तथा शयानस्य ततः अस्य धीमतः । यशस्विनो दाशरथेर् महात्मनः । अदृष्ट दुह्खस्य सुख उचितस्य सा । तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-
Thus, as that wise and illustrious son of Daśaratha, unacquainted with suffering and accustomed to comfort, lay there, the long night slowly passed.
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-
Listen now to the fifty-first chapter in the Ayodhyā Kāṇḍa of the glorious Vālmīki Rāmāyaṇa.
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् । गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-
Guha, tormented by sorrow for the sake of his brother, spoke these words to Rāghava, who was awake and without deceit, and to Lakṣmaṇa.
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-
Dear prince, this comfortable bed has been prepared for you; rest well upon it as you wish, and take comfort here.
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः । गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-
All these people are accustomed to hardship, but you are suited for comfort; we will remain awake through the night to guard Kākutstha.
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-
Truly, there is no one on earth dearer to me than Rāma; I say this truthfully, and I swear to you by truth itself.
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-
By his favor, I hope to gain great fame in this world, to attain abundant righteousness, and to acquire pure prosperity.
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-
Therefore, I will protect my dear friend Rāma, as he lies here with Sītā, holding my bow in hand, together with my kinsmen, on all sides.
न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा । चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-
There is nothing unknown to me in this forest where I always roam; even if a great fourfold army came, we could overcome it.
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-
Then Lakṣmaṇa said to him: 'O faultless one, since we are being protected by you, we have no fear here; we see only righteousness.'
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-
How could I find sleep, or even life or happiness, while the two sons of Daśaratha lie on the ground with Sītā?
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-
He whom neither gods nor asuras could overpower in battle—see him now, lying comfortably on grass with Sītā.
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-
He who was obtained by mantras, austerity, and various efforts—this only son of Daśaratha, possessing noble qualities.
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-
With him gone to the forest, the king will not last long; surely, the earth will soon become a widow.
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-
The women, exhausted, have ceased their loud wailing; I think, dear one, that the royal palace has now fallen silent.
कौसल्या चैव राजा च तथैव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-
Kausalyā, the king, and likewise my own mother—I do not expect that any of them will survive this night.
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-
Perhaps my mother may live, out of concern for Śatrughna; but the sorrow that will destroy Kausalyā, the mother of a hero, is grievous indeed.