आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ १,१२.
श्रीभगवानुवाच यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ १,१२.
त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रषुर्निजधर्मानुपालकः ॥ १,१२.
कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ १,१२.
तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् । भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता ॥ १,१२.
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ १,१२.
अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ १,१२.
तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ १,१२.
मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ १,१२.
त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ १,१२.
सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः ॥ १,१२.
सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ १,१२.
केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ १,१२.
सुनीतिरपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ १,१२.
ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः । कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ १,१२.
श्रीपराशर उवाच एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते ॥ १,१२.
स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश्च वै तथा । द्धादशाक्षरमाहत्म्यात्तपसश्च प्रभावतः ॥ १,१२.
तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि । देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ १,१२.
अहोस्य तपसो वीर्यमहोस्य तपसः फलम् । यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ १,१२.
ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता । अस्याश्च महिमानं कः शक्तो वर्णयितुं भुवि ॥ १,१२.
त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ १,१२.
यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १,१२.
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ १,१२.
श्रीपराशर उवाच। 1.13 ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत। शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान्
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम्। रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम्। प्रजापतेरात्मजायां वीरणस्य महात्मनः
मनोरजायन्त दश नड्वलायां महौजसः कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः
कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः। अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव। अभिमन्युश्च दशमो नड्वलायां महौजसः
कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान्। अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम्
अङ्गात्सुनीथापत्यं वै वेनमेकमजायत। प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम्