गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः । त्वमन्मुखाद्ब्राह्मणा बाह्वोस्त्वत्तो क्षत्रमजायत ॥ १,१२.
वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः । आक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ १,१२.
प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ १,१२.
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ १,१२.
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ १,१२.
बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ १,१२.
यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते । एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ १,१२.
ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ १,१२.
पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ १,१२.
व्यक्तं प्रधानपुरुषौ विराट्सम्राट्स्वराट्तथा । विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ १,१२.
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ १,१२.
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ १,१२.
सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ १,१२.
यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ १,१२.
श्रीभगवानुवाच तपसस्तत्फलं यद्दृष्टोऽहं त्वया ध्रुव । मदृर्शनं हि विफलं राजपुत्र न जायते ॥ १,१२.
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ १,१२.
ध्रुव उवाच भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि । किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ १,१२.
तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ १,१२.
किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ १,१२.
नैतद्राजासनं योग्यमजातस्य ममोदरात् । इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ १,१२.
आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ १,१२.
श्रीभगवानुवाच यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ १,१२.
त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रषुर्निजधर्मानुपालकः ॥ १,१२.
कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ १,१२.
तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् । भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता ॥ १,१२.
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ १,१२.
अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ १,१२.
तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ १,१२.
मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ १,१२.
त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः । भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ १,१२.