ध्रुव उवाच भूमिरापोनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम् ॥ १,१२.
शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् । यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥ १,१२.
भूतादीनां समस्तानां गन्धादीनां च शाश्वतः । बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ १,१२.
तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ १,१२.
बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ १,१२.
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ १,१२.
यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् । त्वत्तौ विराट्स्वराट्सम्राट्त्वत्तश्चप्यधिपूरुषः ॥ १,१२.
अत्यरिच्यत सोधश्च तिर्यगूर्ध्वं च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति ॥ १,१२.
त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् । त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ १,१२.
त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे । त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः ॥ १,१२.
गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः । त्वमन्मुखाद्ब्राह्मणा बाह्वोस्त्वत्तो क्षत्रमजायत ॥ १,१२.
वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः । आक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ १,१२.
प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ १,१२.
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ १,१२.
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ १,१२.
बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः । विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ १,१२.
यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते । एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ १,१२.
ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ १,१२.
पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ १,१२.
व्यक्तं प्रधानपुरुषौ विराट्सम्राट्स्वराट्तथा । विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ १,१२.
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ १,१२.
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ १,१२.
सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ १,१२.
यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ १,१२.
श्रीभगवानुवाच तपसस्तत्फलं यद्दृष्टोऽहं त्वया ध्रुव । मदृर्शनं हि विफलं राजपुत्र न जायते ॥ १,१२.
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ १,१२.
ध्रुव उवाच भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि । किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ १,१२.
तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ १,१२.
किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ १,१२.
नैतद्राजासनं योग्यमजातस्य ममोदरात् । इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ १,१२.