परित्यजति वत्साध्य यध्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ १,१२.
श्रीपराशर उवाच तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ १,१२.
वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ १,१२.
इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ १,१२.
ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ १,१२.
शिवाश्च शतशो नेदुः सज्वालाः कवलैर्मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ १,१२.
हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ १,१२.
ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ १,१२.
रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ १,१२.
एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ १,१२.
ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ १,१२.
ते समेत्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ १,१२.
देवा ऊचुः देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ १,१२.
दिने दिने कलालेशैः शशाङ्क पूर्यते यथा । तथायं तपसा देव प्रयात्यृद्धिमहर्निंशम् ॥ १,१२.
औतानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ १,१२.
नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ १,१२.
तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्तय ॥ १,१२.
श्रीभगवानुवाच नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ १,१२.
यात देवा यथाकाम स्वस्थानं विगतज्वराः । निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ १,१२.
श्रीपराशर उवाच इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ १,१२.
भगवानपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ १,१२.
श्रीभगवानुवाच औत्तानपादे भद्रं ते तपसा परितोषितः । वरदोहमनुप्राप्तो वरं वरय सुव्रत ॥ १,१२.
ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् । तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम् ॥ १,१२.
पराशर उवाच श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ १,१२.
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ १,१२.
रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥ १,१२.
किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुल मतिर्देवं तमेव शरणं ययौ ॥ १,१२.
ध्रुव उवाच भगवन्यदि मे तोषं तपसा परमं गतः । स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ १,१२.
(ब्रह्माद्यौर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः । तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः । त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे) श्रीपराशर उवाच शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ १,१२.
अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥ १,१२.