नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः । तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ १,१२.
यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ १,१२.
कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने । समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ १,१२.
सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ १,१२.
पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथै ॥ १,१२.
दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ १,१२.
क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः । निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ १,१२.
कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ १,१२.
कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ १,१२.
मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ १,१२.
परित्यजति वत्साध्य यध्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ १,१२.
श्रीपराशर उवाच तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ १,१२.
वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ १,१२.
इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ १,१२.
ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ १,१२.
शिवाश्च शतशो नेदुः सज्वालाः कवलैर्मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ १,१२.
हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ १,१२.
ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ १,१२.
रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ १,१२.
एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ १,१२.
ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ १,१२.
ते समेत्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ १,१२.
देवा ऊचुः देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ १,१२.
दिने दिने कलालेशैः शशाङ्क पूर्यते यथा । तथायं तपसा देव प्रयात्यृद्धिमहर्निंशम् ॥ १,१२.
औतानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ १,१२.
नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ १,१२.
तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्तय ॥ १,१२.
श्रीभगवानुवाच नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ १,१२.
यात देवा यथाकाम स्वस्थानं विगतज्वराः । निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ १,१२.
श्रीपराशर उवाच इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ १,१२.