क्रतुरुवाच यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् । तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने ॥ १,११.
वसिष्ठ उवाच प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ १,११.
ध्रुव उवाच आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम् ॥ १,११.
यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ १,११.
ऋषय ऊचुः राजपुत्र यथा विष्णोराराधनपरैर्नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ १,११.
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम् ॥ १,११.
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना । जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन ॥ १,११.
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे । ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे ॥ १,११.
एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ १,११.
ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ १,११.
श्रीपराशर उवाच निशम्यैतदशेषेण मैत्रेय नृपते सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १,१२.
कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ १,१२.
पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ १,१२.
हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ १,१२.
यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ १,१२.
मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा । आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत ॥ १,१२.
अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः । सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥ १,१२.
मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः । न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ १,१२.
वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी । द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते ॥ १,१२.
पादांगुष्ठेन संपीड्य यथा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ १,१२.
नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः । तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ १,१२.
यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ १,१२.
कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने । समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ १,१२.
सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ १,१२.
पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथै ॥ १,१२.
दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ १,१२.
क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः । निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ १,१२.
कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ १,१२.
कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ १,१२.
मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् । अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ १,१२.